Sunday, 8 June 2025

अध्याय १७ - श्रद्धा त्रय विभाग योग

 

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ (१)

 

श्रीभगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।

सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु ॥ (२)

 

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ (३)

 

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः ।

प्रेतान्भूतगणांश्चान्ये जयन्ते तामसा जनाः ॥ (४)

 

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।

दम्भाहङ्‍कारसंयुक्ताः कामरागबलान्विताः ॥ (५)

 

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।

मां चैवान्तःशरीरस्थं तान्विद्ध्‌यासुरनिश्चयान्‌ ॥ (६)

  

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं श्रृणु ॥ (७)

 

आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः ।

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ (८)

 

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः ।

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ (९)

 

यातयामं गतरसं पूति पर्युषितं च यत्‌ ।

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्‌ ॥ (१०)

 

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥ (११)

 

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्‌ ।

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्‌ ॥ (१२)

 

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्‌ ।

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥ (१३)

 

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्‌ ।

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥ (१४)

 

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्‌ ।

स्वाध्यायाभ्यसनं चैव वाङ्‍मयं तप उच्यते ॥ (१५)

 

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ (१६)

 

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥ (१७)

 

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्‌ ।

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्‌ ॥ (१८)

 

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः ।

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्‌ ॥ (१९)

 

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे ।

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम्‌ ॥ (२०)

 

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः ।

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम्‌ ॥ (२१)

 

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते ।

असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ॥ (२२)

 

 ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥ (२३)

 

तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।

प्रवर्तन्ते विधानोक्तः सततं ब्रह्मवादिनाम्‌॥ (२४)

 

तदित्यनभिसन्दाय फलं यज्ञतपःक्रियाः ।

दानक्रियाश्चविविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥ (२५)

 

सद्भावे साधुभावे च सदित्यतत्प्रयुज्यते ।

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ (२६)

 

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।

कर्म चैव तदर्थीयं सदित्यवाभिधीयते ॥ (२७)

 

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्‌ ।

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ (२८)

 


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्याय : ॥

 

॥ हरि: ॐ तत् सत् ॥


No comments:

Post a Comment

पहला अध्याय - श्रीकृष्ण-अर्जुन संवाद

(योद्धाओं की गणना और सामर्थ्य) धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत संजय ॥ (१)  संजय उ...